Sukta 10.85
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥
iháiva stám mā́ ví yauṣṭaṃ víśvam ā́yur vy àśnutam | krī́ḷantau putráir naptṛ́bhir mód amānau své gṛhé ||
Here indeed remain together; do not be divided. Attain the whole span of life in its wideness. Sporting with sons and grandsons, rejoicing, dwell in your own home—established and fulfilled.
इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् । क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् । क्रीळन्तौ । पुत्रैः । नप्तृभिः । मोदमानौ । स्वे । गृहे ॥iha | eva | stam | mā | vi | yauṣṭam | viśvam | āyuḥ | vi | aśnutam | krīḷantau | putraiḥ | naptṛ-bhiḥ | modamānau | sve | gṛhe