Sukta 10.85
सोमेनादित्या बलिनः सोमेन पृथिवी मही । अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥
सोमे॑नादि॒त्या ब॒लिन॒: सोमे॑न पृथि॒वी म॒ही । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥
sómenādityā́ balínaḥ sómena pṛthivī́ mahī́ | átho nákṣatrāṇām eṣā́m upásthe sóma ā́hitaḥ ||
By Soma the Ādityas become strong; by Soma the vast earth grows mighty. And Soma is laid in the lap of these stars—set within the ordered lights as their secret nourishment and delight.
सोमे॑न । आ॒दि॒त्याः । ब॒लिनः॑ । सोमे॑न । पृ॒थि॒वी । म॒ही । अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोमः॑ । आऽहि॑तः ॥सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही । अथो इति । नक्षत्राणाम् । एषाम् । उपस्थे । सोमः । आहितः ॥somena | ādityāḥ | balinaḥ | somena | pṛthivī | mahī | atho iti | nakṣatrāṇām | eṣām | upa-sthe | somaḥ | āhitaḥ