Sukta 10.85
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥
स॒त्येनोत्त॑भिता॒ भूमि॒: सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥
satyénottábhītā bhū́miḥ sū́ryeṇottábhītā dyáuḥ | ṛténa ādityā́s tíṣṭhanti diví sómo ádhi śritáḥ ||
By Truth the earth is upheld; by the Sun the heaven is upheld. By the Right the Ādityas stand firm in the luminous realm; and Soma is set there above—established in the heights of consciousness.
स॒त्येन॑ । उत्त॑भिता । भूमिः॑ । सूर्ये॑ण । उत्त॑भिता । द्यौः । ऋ॒तेन॑ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः॑ । अधि॑ । श्रि॒तः ॥सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः । ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥satyena | uttabhitā | bhūmiḥ | sūryeṇa | uttabhitā | dyauḥ | ṛtena | ādityāḥ | tiṣṭhanti | d ivi | somaḥ | adhi | śritaḥ