Sukta 10.73
जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥
jániṣṭhā ugráḥ sáhase turā́ya mandró ójiṣṭho bahulā́bhimānaḥ | ávardhann índraṃ marútaś cid átra mātā́ yád vīráṃ dádhanad dhániṣṭhā ||
He was born, the formidable one, for a swift and conquering force—joyful in the play of power, most mighty, confident in many widenesses. Even the Maruts increased Indra here, when the Mother set the hero in place, establishing the treasure of force within the being.
जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भि॑मानः । अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलअभिमानः । अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥janiṣṭhāḥ | ugraḥ | sahase | turāya | mandraḥ | ojiṣṭhaḥ | bahula-abhimānaḥ | avardhan | indram | marutaḥ | cit | atra | mātā | yat | vīram | dadhanat | dhaniṣṭhā