Sukta 10.72
देवानां नु वयं जाना प्र वोचाम विपन्यया । उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥
दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ । उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥
devā́nāṃ nu vayáṃ jānā́ prá vocāma vipányayā | uktheṣú śasyámāneṣu yáḥ paśyā́d úttare yugé ||
Now we would declare the births and workings of the Gods with a luminous and discerning speech; in the hymns that are being voiced, he truly sees who can behold in the later age—beyond the first formations.
दे॒वाना॑म् । नु । व॒यम् । जाना॑ । प्र । वो॒चा॒म॒ । वि॒प॒न्यया॑ । उ॒क्थेषु॑ । श॒स्यमा॑नेषु । यः । पश्या॑त् । उत्ऽत॑रे । यु॒गे ॥देवानाम् । नु । वयम् । जाना । प्र । वोचाम । विपन्यया । उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्तरे । युगे ॥devānām | nu | vayam | jānā | pra | vocāma | vipanyayā | uktheṣu | śasyamāneṣu | yaḥ | paśyāt | ut-tare | yuge