Sukta 10.70
देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः । स देवानां पाथ उप प्र विद्वाँ उशन्यक्षि द्रविणोदः सुरत्नः ॥
देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः । स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्न॑: ॥
déva tvaṣṭar yád dha cā́ru-tvám ā́naḍ yád áṅgirasām ábhavaḥ sacā-bhū́ḥ | sá devā́nāṃ pā́tha úpa prá vidvā́n uśán yákṣi draviṇo-daḥ su-rátnāḥ ||
O divine Tvaṣṭṛ, when thou didst attain the beautiful forming, when thou becamest companion of the Aṅgirases—then, knowing well the path of the gods, desiring, worship them; O giver of plenitude, rich in true jewels of the spirit.
देव॑ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑रसाम् । अभ॑वः । स॒चा॒ऽभूः । सः । दे॒वाना॑म् । पाथः॑ । उप॑ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒ऽदः॒ । सु॒ऽरत्नः॑ ॥देव । त्वष्टः । यत् । ह । चारुत्वम् । आनट् । यत् । अङ्गिरसाम् । अभवः । सचाभूः । सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणःदः । सुरत्नः ॥deva | tvaṣṭaḥ | yat | ha | cāru-tvam | ānaṭ | yat | aṅgirasām | abhavaḥ | sacābhūḥ | saḥ | devānām | pāthaḥ | upa | pra | vidvān | uśan | yakṣi | draviṇaḥ-daḥ | su-ratnaḥ