Sukta 10.69
भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥
भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः । यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥
bhadrā́ agnér vadhry-aśvásya saṃ-dṛ́śo vāmī́ prá-ṇītiḥ su-ráṇā́ upétayaḥ | yad ī́ṃ su-mitrā́ víśo ágre indháte ghṛténa ā́huto jarate davídyutat ||
Auspicious are the visions of Agni for Vadhryaśva—his gracious leading, his noble approaches. When the peoples, in good friendship, kindle him in the front, then, offered with clarified light, he grows and shines out with a vivid brilliance.
भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽणी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः । यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥भद्राः । अग्नेः । वध्रिअश्वस्य । सम्दृशः । वामी । प्रणीतिः । सुरणाः । उपइतयः । यत् । ईम् । सुमित्राः । विशः । अग्रे । इन्धते । घृतेन । आहुतः । जरते । दविद्युतत् ॥bhadrāḥ | agneḥ | vadhri-aśvasya | sam-dṛśaḥ | vāmī | pra-ṇītiḥ | su-raṇāḥ | upa-itayaḥ | yat | īm | su-mitrāḥ | viśaḥ | agre | indhate | ghṛtena | āhutaḥ | jarate | davidyutat