Sukta 10.66
वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये । प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥
वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तय॒: काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥
vasiṣṭhāsaḥ pitṛ-vád vā́cam akrata devā́n ī́ḷānā ṛṣi-vát svastáye | prītā́ iva jñātáyaḥ kā́mam ā́ityā́sme devā́so’va dhūnutā vásu ||
The Vasiṣṭhas fashioned the Word as a fatherly utterance, invoking the Gods in the manner of seers for our well-being. May the Gods, arriving to us as delighted kinsmen according to the soul’s true desire, shake down for us the riches—inner plenitudes of being.
वसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ । प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः । अव॑ । धू॒नु॒त॒ । वसु॑ ॥वसिष्ठासः । पितृवत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषिवत् । स्वस्तये । प्रीताःइव । ज्ञातयः । कामम् । आइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥vasiṣṭhāsaḥ | pitṛ-vat | vācam | akrata | devān | īḷānāḥ | ṛṣi-vat | svastaye | prītāḥ-iva | jñātayaḥ | kāmam | āitya | asme iti | devāsaḥ | ava | dhūnuta | vasu