Sukta 10.61
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः । ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥
त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥
tá ū́ ṣú ṇo máho yajatrā bhū́ta devāsa ūtáye sajóṣāḥ | yé vājā́n ánáyatā viyánto yé sthā nicetā́ro amū́rāḥ ||
May you, O gods worthy of worship, become for us a great help in one accord—those who lead the plenitudes of force onward, who move wide, who stand as the discerning ones, unbewildered.
ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥ते । ऊँ इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सजोषाः । ये । वाजान् । अनयत । वियन्तः । ये । स्थ । निचेतारः । अमूराः ॥te | oṃ iti | su | naḥ | mahaḥ | yajatrāḥ | bhūta | devāsaḥ | ūtaye | sa-joṣāḥ | ye | vājān | anayata | vi-yantaḥ | ye | stha | ni-cetāraḥ | amūrāḥ