Sukta 10.57
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि ॥
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तं नशीमहि ॥
yó yajñásya prasā́dhanas tántur devéṣv ā́tataḥ | tám ā́hutam naśīmahi ||
That thread of the sacrifice which is its true accomplishing, stretched out among the gods—may we reach and possess that which is well-offered.
यः । य॒ज्ञस्य॑ । प्र॒ऽसाध॑नः । तन्तुः॑ । दे॒वेषु॑ । आऽत॑तः । तम् । आऽहु॑तम् । न॒शी॒म॒हि॒ ॥यः । यज्ञस्य । प्रसाधनः । तन्तुः । देवेषु । आततः । तम् । आहुतम् । नशीमहि ॥yaḥ | yajñasya | pra-sādhanaḥ | tantuḥ | deveṣu | ātataḥ | tam | āhutam | naśīmahi