Sukta 10.53
यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥
यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒: पूर्वो॑ अ॒स्मत् ॥
yám aícchāma mánasā só ’yám ā́gād yajñásya vidvā́n páruṣaś ciki tvā́n | sá no yakṣad devátātā yajī́yān ní hí ṣat-sád ántaraḥ pū́rvo asmát ||
Whom we sought with the mind—he has come: the Knower of the sacrifice, discerning in every detail. Let him sacrifice for us, establishing the godhead in us, the more fit in offering; for he sits within, seated in the heart’s intervals, older than our surface being.
यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् । सः । नः । यक्षत् । देवताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥yam | aicchāma | manasā | saḥ | ayam | ā | agāt | yajñasya | vidvān | paruṣaḥ | ciki tvān | saḥ | naḥ | yakṣat | deva-tātā | yajīyān | ni | hi | satsat | antaraḥ | pūrvaḥ | asmat