Sukta 10.51
प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
प्र॒या॒जान्मे॑ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो॑ दत्त भा॒गम् । घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥
práyājān me anuyājā́ṃś ca kévalān ūrjásvantaṃ havíṣo datta bhāgám | ghṛtáṃ cāpā́ṃ púruṣaṃ coṣadhī́nām agnéś ca dīrghám ā́yuḥ astu devāḥ ||
O Gods, grant to me the fore-offerings and the after-offerings—pure and filled with strength—give their due portion of the oblation. And may there be the clarified light of the waters and the essential sap of the plants; and for Agni (the divine Will in us) let there be long life—enduring power of persistence.
प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् । घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥प्रयाजान् । मे । अनुयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् । घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥pra-yājān | me | anu-yājān | ca | kevalān | ūrjasvantam | haviṣaḥ | datta | bhāgam | ghṛtam | ca | apām | puruṣam | ca | oṣadhīnām | agneḥ | ca | dīrgham | āyuḥ | astu | devāḥ