Sukta 10.51
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः । अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥
कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्या॑: । अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विष॑: सुजात ॥
kúrmás ta ā́yur ajáraṃ yád agne yáthā yuktó jātavedo ná riṣyā́ḥ | áthā vahāsi su-manasyámāno bhāgáṃ devébhyo havíṣaḥ sujāta ||
We establish for you an unaging life, O Agni, so that yoked rightly, O Jātavedas, you do not suffer harm. Then, well-disposed, you carry to the gods their share of the offering, O well-born—fulfilling the right exchange between human and divine.
कु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ । अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥कुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जातवेदः । न । रिष्याः । अथ । वहासि । सुमनस्यमानः । भागम् । देवेभ्यः । हविषः । सुजात ॥kurmaḥ | te | āyuḥ | ajaram | yat | agne | yathā | yuktaḥ | jāta-vedaḥ | na | riṣyāḥ | atha | vahāsi | su-manasyamānaḥ | bhāgam | devebhyaḥ | haviṣaḥ | su-jāta