Sukta 10.5
असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे । अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥
अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ । अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥
ásac ca sác ca paramé vyòman dákṣasya jánmann áditeḥ upásthe | agnír ha naḥ prathamajā́ ṛtásya pū́rva ā́yuni vṛṣabháś ca dhenúḥ ||
Non-being and being are held together in the highest heaven, in the birth of Dakṣa, in Aditi’s wide lap. There Agni is for us the first-born of the Truth-Order, ancient in life, at once the Bull-force and the Cow of abundance.
अस॑त् । च॒ । स॒त् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ । अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥असत् । च । सत् । च । परमे । विओमन् । दक्षस्य । जन्मन् । अदितेः । उपस्थे । अग्निः । ह । नः । प्रथमजाः । ऋतस्य । पूर्वे । आयुनि । वृषभः । च । धेनुः ॥asat | ca | sat | ca | parame | vi-oman | dakṣasya | janman | aditeḥ | upa-sthe | agniḥ | ha | naḥ | prathama-jāḥ | ṛtasya | pūrve | āyuni | vṛṣabhaḥ | ca | dhenuḥ