Sukta 10.5
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥
स॒प्त म॒र्यादा॑: क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् । आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
saptá maryā́dāḥ kaváyas tatakṣus tā́sām ékām íd abhí aṃhúro gā́t | āyór ha skambhá upamásya nīḷé pathā́ṃ visargé dharuṇéṣu tasthau ||
Seven firm frontiers the seers shaped in the being; and of these, one path alone the narrowness can cross. There the supporting pillar of the Highest stands in its secret seat, set in the release of the paths, in the sustaining foundations.
स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् । आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । एकाम् । इत् । अभि । अंहुरः । गात् । आयोः । ह । स्कम्भः । उपमस्य । नीळे । पथाम् । विसर्गे । धरुणेषु । तस्थौ ॥sapta | maryādāḥ | kavayaḥ | tatakṣuḥ | tāsām | ekām | it | abhi | aṃhuraḥ | gāt | āyoḥ | ha | skambhaḥ | upa-masya | nīḷe | pathām | vi-sarge | dharuṇeṣu | tasthau