Sukta 10.48
आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम । ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥
आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ । ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हम् ॥
ādityā́nāṃ vásūnāṃ rudriyā́ṇāṃ devó devā́nāṃ ná mināmi dhā́ma | té mā bhadrā́ya śávase tatakṣur áparājitam ástṛtam áṣāḷham ||
Of the Ādityas, of the Vasus, of the Rudriyas—of the gods I, a god, do not diminish the seat of power. They have fashioned me for an auspicious might: unconquered, unpierced, not to be overpowered.
आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ । ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम । ते । मा । भद्राय । शवसे । ततक्षुः । अपराजितम् । अस्तृतम् । अषाळ्हम् ॥ādityānām | vasūnām | rudriyāṇām | devaḥ | devānām | na | mināmi | dhāma | te | mā | bhadrāya | śavase | tatakṣuḥ | aparājitam | astṛtam | aṣāḷham