Sukta 10.34
यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥
यो व॑: सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ । तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥
yó vaḥ senānī́r maható gaṇásya rājā́ vrā́tasya prathamó babhū́va | tásmai kṛṇomi ná dhánā ruṇadhmi daśā́haṃ prācī́s tád ṛtáṃ vadāmi ||
He who is your leader of the great troop, the king and first of the band—to him I yield; I do not hold back the winnings. For ten (days/turns) I have gone eastward: this is the truth-order I declare.
यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ । तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥यः । वः । सेनानीः । महतः । गणस्य । राजा । व्रातस्य । प्रथमः । बभूव । तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि ॥yaḥ | vaḥ | senānīḥ | mahataḥ | gaṇasya | rājā | vrātasya | prathamaḥ | babhūva | tasmai | kṛṇomi | na | dhanā | ruṇadhmi | daśa | aham | prācīḥ | tat | ṛtam | vadāmi