Sukta 10.33
न देवानामति व्रतं शतात्मा चन जीवति । तथा युजा वि वावृते ॥
न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति । तथा॑ यु॒जा वि वा॑वृते ॥
ná devā́nām áti vratáṃ śatā́tmā caná jī́vati | táthā yujā́ ví vāvṛte ||
He does not live—even with a hundred selves—who oversteps the law of the Gods; only by union in the right yoking does one widen out into the true becoming.
न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ । तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥न । देवानाम् । अति । व्रतम् । शतआत्मा । चन । जीवति । तथा । युजा । वि । ववृते ॥na | devānām | ati | vratam | śata-ātmā | cana | jīvati | tathā | yujā | vi | vavṛte