Sukta 10.32
प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः । अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥
प्र सु ग्मन्ता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो॑धति ॥
prá su gmántā dhiyasāná-sya sákṣaṇi varébhiḥ varā́n abhí ṣú pra-sī́dataḥ | asmā́kam índra ubháyaṃ jujoṣati yát somyásyā́ndhaso bubódhati ||
Come forward, settle firmly into the power of the thinker’s work, with the choicest boons; take your seat towards the best. Our Indra accepts both (the offering and the growth it brings) when he awakens to the Soma’s pressed essence within us.
प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः । अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रसीदतः । अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥pra | su | gmantā | dhiyasānasya | sakṣaṇi | varebhiḥ | varān | abhi | su | pra-sīdataḥ | asmākam | indraḥ | ubhayam | jujoṣati | yat | somyasya | andhasaḥ | bubodhati