Sukta 10.3
कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥
कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥
kṛṣṇā́ṁ yád enī́m abhí várpasā bhū́j janáyan yóṣāṁ bṛhatáḥ pitúr jā́m | ūrdhváṁ bhānúṁ sū́ryasya stabhā́yan divó vásu-bhir aratír ví bhā́ti ||
When by his own form he confronts the blackness, bringing to birth the radiant young one, the child of the Vast Father; he sets the Sun’s beam upright, and with the riches of heaven the moving Power shines out widely.
कृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् । ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुभिः । अरतिः । वि । भाति ॥kṛṣṇām | yat | enīm | abhi | varpasā | bhūt | janayan | yoṣām | bṛhataḥ | pituḥ | jām | ūrdhvam | bhānum | sūryasya | stabhāyan | divaḥ | vasu-bhiḥ | aratiḥ | vi | bhāti