Sukta 10.26
अस्माकमूर्जा रथं पूषा अविष्टु माहिनः । भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥
अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं न॑: शृणव॒द्धव॑म् ॥
asmā́kam ūrjā́ ráthaṃ pūṣā́ aviṣṭu mā́hinaḥ | bhúvad vājā́nāṃ vṛ́dha imáṃ naḥ śṛṇavad dhávam ||
May Pūṣan, mighty, protect our chariot of living energy; may he become the increaser of our plenitudes of force, and hear this our call.
अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः । भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः । भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥asmākam | ūrjā | ratham | pūṣā | aviṣṭu | māhinaḥ | bhuvat | vājānām | vṛdhaḥ | imam | naḥ | śṛṇavat | havam