Sukta 10.21
त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे । घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥
त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे । घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥
tvā́ṃ yajñéṣv ṛtv́ijaṃ cā́rum agne ní ṣedire | ghṛtápratīkaṃ mánuṣo ví vo made śukráṃ cétiṣṭham akṣábhír vívakṣase ||
You in the sacrifices men have seated, O Agni, the lovely priest of the seasons; with face of ghee, in our rapture you seek to manifest the bright and most perceptive power, with the eyes of vision.
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ । घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒कम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥त्वाम् । यज्ञेषु । ऋत्विजम् । चारुम् । अग्ने । नि । सेदिरे । घृतप्रतीकम् । मनुषः । वि । वः । मदे । शुकम् । चेतिष्ठम् । अक्षभिः । विवक्षसे ॥tvām | yajñeṣu | ṛtvijam | cārum | agne | ni | sedire | ghṛta-pratīkam | manuṣaḥ | vi | vaḥ | made | śukam | cetiṣṭham | akṣa-bhiḥ | vivakṣase