Sukta 10.190
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥
sūryācandramásau dhātā́ yathāpū́rvam akalpayat | dívaṃ ca pṛthivī́ṃ cāntárikṣam átho svàḥ ||
The Ordainer fashioned Sun and Moon according to the first archetype; and he set their stations—heaven and earth and the mid-world, and also the luminous supramental realm.
सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् । दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥sūryācandramasau | dhātā | yathāpūrvam | akalpayat | divam | ca | pṛthivīm | ca | antarikṣam | atho | svaḥ