Sukta 10.189
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥
āyáṃ gáuḥ pṛ́śnir akramīd ásadan mātáraṃ puráḥ | pitáraṃ ca prayán svàr ||
This radiant Cow of variegated light has stepped forth and taken her place before the Mother; and she goes onward to the Father, toward the luminous world.
आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्वरिति॑ स्वः॑ ॥आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । स्वरिति स्वः ॥ā | ayam | gauḥ | pṛśniḥ | akramīt | asadat | mātaram | puraḥ | pitaram | ca | pra-yan | [svar iti]svaḥ