Sukta 10.187
यो अस्य पारे रजसः शुक्रो अग्निरजायत । स नः पर्षदति द्विषः ॥
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स न॑: पर्ष॒दति॒ द्विष॑: ॥
yó asyá pāré rájasaḥ śukró agnír ájāyata | sá naḥ párṣad áti dvíṣaḥ ||
He—Agni, the bright one—who is born on the far shore beyond the mid-world; may he carry us beyond the hostile forces.
यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥यः । अस्य । पारे । रजसः । शुक्रः । अग्निः । अजायत । सः । नः । पर्षत् । अति । द्विषः ॥yaḥ | asya | pāre | rajasaḥ | śukraḥ | agniḥ | ajāyata | saḥ | naḥ | parṣat | at i | dviṣaḥ