Sukta 10.186
यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ॥
यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ ॥
yád adó vāta te gṛhé ’mṛ́tasya nidhír hitáḥ | tátó no dehi jīváse ||
If there, O Vāta, in your home a treasure of immortality is laid up, then from that store give to us for living—let the deathless portion enter our breath and sustain our journey.
यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒धिः । हि॒तः । ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥यत् । अदः । वात । ते । गृहे । अमृतस्य । निधिः । हितः । ततः । नः । देहि । जीवसे ॥yat | adaḥ | vāta | te | gṛhe | amṛtasya | nidhiḥ | hitaḥ | tataḥ | naḥ | dehi | jīvase