Sukta 10.181
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥
अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥
avíndante áti-hitaṃ yád āsīd yajñásya dhā́ma paramáṃ guhā́ yát | dhā́tur dyutā́nāt savitúś ca víṣṇor bharádvājo bṛhád ā́ cakre agnéḥ ||
They found that which was set beyond, when the supreme seat of the sacrifice was hidden in the cavern. From Dhātṛ’s shining, from Savitṛ and from Viṣṇu, Bharadvāja fashioned the Vast (Bṛhat) for Agni—so the Fire may blaze in the wideness of the soul.
अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥अविन्दन् । ते । अतिहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्वाजः । बृहत् । आ । चक्रे । अग्नेः ॥avindan | te | ati-hitam | yat | āsīt | yajñasya | dhāma | paramam | guhā | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | bharat-vājaḥ | bṛhat | ā | cakre | agneḥ