Sukta 10.181
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णोरथंतरमा जभार वसिष्ठः ॥
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामा॑नुष्टु॒भस्य॑ ह॒विषो॑ ह॒विर्यत् । धातु॑र्द्युता॒नात्स॑वि॒तुश्च॒ विष्णो॑र॒थंतर॒मा ज॒भार॒ वसि॑ष्ठः ॥
práthaś ca yásya sa-práthaś ca nā́mānuṣṭúbhasya havíṣo havír yát | dhā́tur dyutā́nāt savitúś ca víṣṇor athaṃtarám ā́ jabhā́ra vásiṣṭhaḥ ||
He whose wideness and name are wideness—of him the Anuṣṭubh brings the offering as the offering. From the shining ordainer (Dhātṛ), from Savitṛ and from Viṣṇu, Vasiṣṭha has borne hither the Atharvan-like inner support, the moving chariot of the rite.
प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥प्रथः । च । यस्य । सप्रथः । च । नाम । आनुस्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्तरम् । आ । जभार । वसिष्ठः ॥prathaḥ | ca | yasya | sa-prathaḥ | ca | nāma | ānu-stubhasya | haviṣaḥ | hav iḥ | yat | dhātuḥ | dyutānāt | savituḥ | ca | viṣṇoḥ | ratham-taram | ā | jabhāra | vasiṣṭhaḥ