Sukta 10.180
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥
índra kṣatrám abhí vāmám ójo ’jāyathā vṛṣabha carṣaṇī́nām | apā́nudo jánam amitra-yántam urúṃ devébhyo akṛṇor u lokám ||
O Indra, thou wast born into the beloved force of sovereign power, O Bull of the peoples. Thou drivest away the hostile-moving human impulses and hast made for the gods a wide field of being, a spacious world for the luminous powers to act within us.
इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊँ॒ इति॑ । लो॒कम् ॥इन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् । अप । अनुदः । जनम् । अमित्रयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊँ इति । लोकम् ॥indra | kṣatram | abhi | vāmam | ojaḥ | ajāyathāḥ | vṛṣabha | carṣaṇīnām | apa | anudaḥ | janam | amitra-yantam | urum | devebhyaḥ | akṛṇoḥ | oṃ iti | lokam