Sukta 10.178
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नाम् । अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
tyám ū́ ṣú vā́jinaṃ devá-jūtaṃ sahā́vānaṃ tarutā́raṃ ráthānām | áriṣṭa-nemiṃ pṛtanā́jam āśúṃ svastáye tārkṣyám ihá huvema ||
That swift bearer of plenitude, driven by the gods, victorious and overcoming in the rush of our chariots—unbroken in wheel, conquering in battle—Tārkṣya we call here for our well-being and right passage.
त्यम् । ऊँ॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒ऽतार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥त्यम् । ऊँ इति । सु । वाजिनम् । देवजूतम् । सहवानम् । तरुतारम् । रथानाम् । अरिष्टनेमिम् । पृतनाजम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । हुवेम ॥tyam | oṃ iti | su | vājinam | deva-jūtam | saha-vānam | taru-tāram | rathānām | ariṣṭa-nemim | pṛtanājam | āśum | svastaye | tārkṣyam | iha | huvema