Sukta 10.177
पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा॑न्ति ॥
pataṅgó vā́caṃ mánasā bibharti tā́ṃ gandharvó ’vadad gárbhe antáḥ | tā́ṃ dyótamānāṃ svaryàṃ manīṣā́m ṛtásya padé kaváyo ní pānti ||
The Winged One bears the Word in the mind; the Gandharva spoke it within the womb of things. That shining, sun-bright inspiration the seers guard and drink in at the station of Ṛta (the Truth-Order).
प॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः॑ । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ । ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति । ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥pataṅgaḥ | vācam | manasā | bibharti | tān | gandharvaḥ | avadat | garbhe | antar iti | tām | dyotamānām | svaryam | manīṣām | ṛtasya | pade | kavayaḥ | ni | pānti