Sukta 10.177
पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥
प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥
pataṅgám aktám ásurasya māyáyā hṛdā́ paśyanti mánasā vipaścítaḥ | samudré antáḥ kaváyo ví cakṣate marī́cīnāṃ padám ícchanti vedhásaḥ ||
The illumined seers behold with heart and mind the Winged One, anointed by the Asura’s power of shaping. Within the ocean of consciousness the poets discern; the knowers seek the station of the Rays (the home of illuminations).
प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् प॒दम् इ॑च्छन्ति वे॒धसः॑ ॥पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःचितः । समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् पदम् इच्छन्ति वेधसः ॥pataṅgam | aktam | asurasya | māyayā | hṛdā | paśyanti | manasā | vipaḥ-citaḥ | samudre | antariti | kavayaḥ | vi | cakṣate | marīcīnām padam icchanti vedhasaḥ