Sukta 10.176
प्र सूनव ऋभूणां बृहन्नवन्त वृजना । क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ । क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥
prá sū́nava ṛbhūṇā́ṃ bṛhán navanta vṛ́janā | kṣā́mā yé viśvá-dhāyaso ’śnan dhénuṃ ná mātáram ||
Forward, O sons of the R̥bhus: enlarge the vast work, O active ones. You who uphold all things, feed on the nourishing Earth as on a mother-cow—draw from her the sustaining plenty for the journey of becoming.
प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ । क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना । क्षाम । ये । विश्वधायसः । अश्नन् । धेनुम् । न । मातरम् ॥pra | sūnavaḥ | ṛbhūṇām | bṛhat | navanta | vṛjanā | kṣāma | ye | viśva-dhāyasaḥ | aśnan | dhenum | na | mātaram