Sukta 10.167
प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे । सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥
प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे । सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥
prasū́to bhakṣám akaraṁ carā́v ápi stómam cemáṁ prathamáḥ sūrír unmṛje | suté sā́tena yády ā́gamam vāṁ práti viśvāmitra-jamadagnī dáme ||
Set in motion, I have prepared the portion in the bowl, and I fashion forth this hymn—first as the illumined giver. When, by the winning in the pressed Soma, I came to you two, in the house—O Viśvāmitra and Jamadagni (powers of inspired seeing and fiery mastery).
प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ । सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥प्रसूतः । भक्षम् । अकरम् । चरौ । अपि । स्तोमम् । च । इमम् । प्रथमः । सूरिः । उत् । मृजे । सुते । सातेन । यदि । आ । अगमम् । वाम् । प्रति । विश्वामित्रजमदग्नी इति । दमे ॥pra-sūtaḥ | bhakṣam | akaram | carau | api | stomam | ca | imam | prathamaḥ | sūriḥ | ut | mṛje | sute | sātena | yadi | ā | agamam | vām | prati | viśvāmitrajamadagnī iti | dame