Sukta 10.167
तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥
तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑: परि॒तप्या॑जय॒: स्व॑: ॥
túbhyédám indra pári sicyate mádhu tváṁ sutásya kalaśásya rājasi | tváṁ rayíṁ puruvī́rām u naḥ kṛdhi tváṁ tápaḥ paritápyā́jayaḥ svàḥ ||
For you, O Indra, this honeyed delight is being poured all around; you are the lord of the pressed Soma-vessel. Make for us the rayi—fullness of being rich in many heroic powers; you, by the ardour that ripens all, did win the luminous heaven (svah).
तुभ्य॑ । इ॒दम् । इ॒न्द्र॒ । परि॑ । सि॒च्य॒ते॒ । मधु॑ । त्वम् । सु॒तस्य॑ । क॒लश॑स्य । रा॒ज॒सि॒ । त्वम् । र॒यिम् । पु॒रु॒ऽवीरा॑म् । ऊँ॒ इति॑ । नः॒ । कृ॒धि॒ । त्वम् । तपः॑ । प॒रि॒ऽतप्य॑ । अ॒ज॒यः॒ । स्वरिति॑ स्वः॑ ॥तुभ्य । इदम् । इन्द्र । परि । सिच्यते । मधु । त्वम् । सुतस्य । कलशस्य । राजसि । त्वम् । रयिम् । पुरुवीराम् । ऊँ इति । नः । कृधि । त्वम् । तपः । परितप्य । अजयः । स्वरिति स्वः ॥tubhya | idam | indra | pari | sicyate | madhu | tvam | sutasya | kalaśasya | rājas i | tvam | rayim | puru-vīrām | oṃ iti | naḥ | kṛdhi | tvam | tapaḥ | pari-tapya | ajayaḥ | [svar iti]svaḥ