Sukta 10.165
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु । अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्न॒: परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
śiváḥ kapotá iṣitó no astv anāgā́ devāḥ śakunó gṛhéṣu | agnír hí vípro juṣátāṃ havír naḥ pári hetíḥ pakṣiṇī́ no vṛṇaktu ||
May the pigeon, though impelled, be for us benign; may the bird-sign be without fault in our homes. For Agni the seer accepts our offering; and may the winged missile (the hostile stroke) pass around us and choose us not.
शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ । अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु । अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥śivaḥ | kapotaḥ | iṣitaḥ | naḥ | astu | anāgāḥ | devāḥ | śakunaḥ | gṛheṣu | agniḥ | hi | vipraḥ | juṣatām | haviḥ | naḥ | pari | hetiḥ | pakṣiṇī | naḥ | vṛṇaktu