Sukta 10.156
अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ॥
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि । दध॒ज्ज्योति॒र्जने॑भ्यः ॥
agne nákṣatram ajáram ā́ sū́ryaṃ rohayo diví | dádhaj jyótir jánébhyāḥ ||
O Agni, thou makest the imperishable star to rise—the Sun in heaven—setting the Light within for the peoples (the souls).
अग्ने॑ । नक्ष॑त्रम् । अ॒जर॑म् । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि । दध॑त् । ज्योतिः॑ । जने॑भ्यः ॥अग्ने । नक्षत्रम् । अजरम् । आ । सूर्यम् । रोहयः । दिवि । दधत् । ज्योतिः । जनेभ्यः ॥agne | nakṣatram | ajaram | ā | sūryam | rohayaḥ | divi | dadhat | jyotiḥ | janebhyaḥ