Sukta 10.155
अरायि काणे विकटे गिरिं गच्छ सदान्वे । शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥
अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥
arā́yi kā́ṇe víkaṭe giríṃ gáccha sadānve | śirímbiṭhasya sátvabhis tébhiṣ ṭvā cātayāmasi ||
O hostile want, blind and misshapen, go to the mountain, O ever-haunting one; by the driving powers of Śirimbiṭha, with those we smite thee away from us.
अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ । शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥अरायि । काणे । विकटे । गिरिम् । गच्छ । सदान्वे । शिरिम्बिठस्य । सत्वभिः । तेभिः । त्वा । चातयामसि ॥arāyi | kāṇe | vi-kaṭe | girim | gaccha | sadānve | śirimbiṭhasya | satva-bhiḥ | tebhiḥ | tvā | cātayāmasi