Sukta 10.153
त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा । स विश्वा भुव आभवः ॥
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा । स विश्वा॒ भुव॒ आभ॑वः ॥
tvám índrābhíbhūr asi víśvā jātā́ny ójasā | sá víśvā bhúva ā́bhavaḥ ||
Thou, O Indra, art the overmastering power; by thy concentrated energy thou surpassest all that is born, and thou becomest the wide support and mastery of all the worlds of becoming.
त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । सः । विश्वा॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥त्वम् । इन्द्र । अभिभूः । असि । विश्वा । जातानि । ओजसा । सः । विश्वा । भुवः । आ । अभवः ॥tvam | indra | abhi-bhūḥ | asi | viśvā | jātāni | ojasā | saḥ | viśvā | bhuvaḥ | ā | abhavaḥ