Sukta 10.150
समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन । आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥
समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन । आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥
samíddhaś cit samídhyase devébhyo havya-vāhana | ādityái rudráir vásubhir na ā́ gahi mṛḷīkā́ya na ā́ gahi ||
Even when kindled, you are kindled ever anew for the Gods, O carrier of the offering. Come to us with the Ādityas, with the Rudras, with the Vasus; come to us for our solace and healing.
सम्ऽइ॑द्धः । चि॒त् । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । नः॒ । आ । ग॒हि॒ । मृ॒ळी॒काय॑ । नः॒ । आ । ग॒हि॒ ॥सम्इद्धः । चित् । सम् । इध्यसे । देवेभ्यः । हव्यवाहन । आदित्यैः । रुद्रैः । वसुभिः । नः । आ । गहि । मृळीकाय । नः । आ । गहि ॥sam-iddhaḥ | cit | sam | idhyase | devebhyaḥ | havya-vāhan | ādityaiḥ | rudraiḥ | vasu-bhiḥ | naḥ | ā | gahi | mṛḷīkāya | naḥ | ā | gahi