Sukta 10.143
आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा । समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा । सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिष॑: ॥
ā́ vāṃ sumnáiḥ śaṃyū́ iva máṃhiṣṭhā víśvavedasā | sám asmé bhūṣataṃ narótsáṃ ná pipyúṣīr íṣaḥ ||
Come to us with your blessings, like two beneficent friends—O most bountiful, all-knowing ones. Adorn us together, O heroes, with nourishing impulses, as a spring is filled to overflowing.
आ । वा॒म् । सु॒म्नैः । शं॒यूइ॒वेति॑ शं॒यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा । सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥आ । वाम् । सुम्नैः । शंयूइवेति शंयूइव । मंहिष्ठा । विश्ववेदसा । सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥ā | vām | sumnaiḥ | śaṃyūivetiśaṃyū-iva | maṃhiṣṭhā | viśva-vedasā | sam | asme iti | bhūṣatam | narā | utsam | na | pipyuṣīḥ | iṣaḥ