Sukta 10.14
त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत् । त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥
त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् । त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥
tríkadrukebhiḥ pátati ṣáḷ urvī́r ékam íd bṛhát | triṣṭúb gāyatrī́ chándāṃsi sárvā tā́ yáme ā́hitā ||
With the three kadrukas it flies; six wide expanses—yet one vastness. Triṣṭubh, Gāyatrī, all the meters: all these are set and established in Yama.
त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् । त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥त्रिकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् । त्रिस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आहिता ॥tri-kadrukebhiḥ | patati | ṣaṭ | urvīḥ | ekam | it | bṛhat | tri-stup | gāyatrī | chandāṃsi | sarvā | tā | yame | āhitā