Sukta 10.14
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥
य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्य॒: पूर्वे॑भ्यः पथि॒कृद्भ्य॑: ॥
yamā́ya mádhumattamaṃ rājñé havyáṃ juhotana | idáṃ náma ṛ́ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikṛ́dbhyaḥ ||
Offer to Yama the King the oblation most rich in sweetness. This is our reverence to the seers, the first-born, the ancients who made the paths.
य॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ । इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥यमाय । मधुमत्तमम् । राज्ञे । हव्यम् । जुहोतन । इदम् । नमः । ऋषिभ्यः । पूर्वजेभ्यः । पूर्वेभ्यः । पथिकृत्भ्यः ॥yamāya | madhumat-tamam | rājñe | havyam | juhotana | idam | namaḥ | ṛṣi-bhyaḥ | pūrva-jebhyaḥ | pūrvebhyaḥ | pathikṛt-bhyaḥ