Sukta 10.131
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥
tásya vayáṃ sumatáu yajñíyasyā́pi bhadré sáumanase syā́ma | sá sutrāmā́ svavā́m̐ índro asmè ārā́c cid dvéṣaḥ sanutár yuyotu ||
In the luminous goodwill of That adorable Power of the sacrifice, may we too abide—in the happy, harmonious mind. May Indra, the strong protector, rich in his own force, drive far away from us even the least hostility, removing it utterly.
तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ । सः । सु॒त्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒त । यु॒यो॒तु॒ ॥तस्य । वयम् । सुमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सुत्रामा । स्ववान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुत । युयोतु ॥tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma | saḥ | sutrāmā | sva-vān | indraḥ | asme iti | ārāt | cit | dveṣaḥ | sanuta | yuyotu