Sukta 10.13
यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥
य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॑: । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥
yamé iva yátamāne yád étaṃ prá vāṃ bháran mā́nuṣā devayántaḥ | ā́ sīdatáṃ svám u lokáṃ vidā́ne svāsásthe bhavatám índave naḥ ||
As if in Yama’s domain, when the aspiring human beings bring this forward for you two, sit down in your own known world. Become firmly seated in your right seat for our Soma—so the delight may be received in its true home within us.
य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ । आ । सी॒द॒त॒म् । स्वम् । ऊँ॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥यमे इवेति यमेइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवयन्तः । आ । सीदतम् । स्वम् । ऊँ इति । लोकम् । विदाने इति । स्वासस्थे इति सुआसस्थे । भवतम् । इन्दवे । नः ॥yame ivetiyame--iva | yatamāneiti | yat | aitam | pra | vām | bharan | mānuṣāḥ | deva-yantaḥ | ā | sīdatam | svam | oṃ iti | lokam | vidāneiti | svāsasthe itisu-āsasthe | bhavatam | indave | naḥ