Sukta 10.13
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
yujé vāṃ bráhma pū́rvyaṃ namóbhir ví ślóka etu pathyéva sūrḗḥ | śṛṇvántu víśve amṛ́tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ ||
I yoke for you two the ancient Word with acts of reverence; let the clear chant go forth like the guiding path of the inspired seer. Let all the children of immortality hear—those who stand in the luminous abodes—so the higher powers may consent to the soul’s upward journey.
यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥युजे । वाम् । ब्रह्म । पूर्व्यम् । नमःभिः । वि । श्लोकः । एतु । पथ्याइव । सूरेः । शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥yuje | vām | brahma | pūrvyam | namaḥ-bhiḥ | vi | ślokaḥ | etu | pathyāiva | sūreḥ | śṛṇvantu | viśve | amṛtasya | putrāḥ | ā | ye | dhāmāni | divyāni | tasthuḥ