Sukta 10.118
तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे । यजिष्ठं मानुषे जने ॥
तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे । यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥
táṃ tvā gīrbhír urukṣáyā havyavā́haṃ sám īdhire | yájiṣṭhaṃ mā́nuṣe jáne ||
You, the offering-bearer, the wide-dwelling power, they have kindled with their hymns—most capable in the work of sacrifice within the human being.
तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ । यजि॑ष्ठम् । मानु॑षे । जने॑ ॥तम् । त्वा । गीःभिः । उरुक्षयाः । हव्यवाहम् । सम् । ईधिरे । यजिष्ठम् । मानुषे । जने ॥tam | tvā | gīḥ-bhiḥ | uru-kṣayāḥ | havya-vāham | sam | īdhire | yajiṣṭham | mānuṣe | jane