Sukta 10.106
बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः । कर्णेव शासुरनु हि स्मराथोंऽशेव नो भजतं चित्रमप्नः ॥
बृ॒हन्ते॑व ग॒म्भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः । कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्न॑: ॥
bṛhántēva gambharēṣu prati-sthā́ṃ pā́dēva gādháṃ tarate vidāthaḥ | karṇēva śā́sur ánu hí smarāthōṃśēva no bhajataṃ citrám apnaḥ ||
You establish a firm foundation in the depths like the Vast itself; you carry us across the difficult ford as a sure foot. Like an ear that follows the teacher’s word, you remember and respond to our call. Give us, as a rightful share, the varied works of attainment—wondrous realizations of the soul’s labour.
बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ । कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥बृहन्ताइव । गम्भरेषु । प्रतिस्थाम् । पादाइव । गाधम् । तरते । विदाथः । कर्णाइव । शासुः । अनु । हि । स्मराथः । अंशाइव । नः । भजतम् । चित्रम् । अप्नः ॥bṛhantāiva | gambhareṣu | prati-sthām | pādāiva | gādham | tarate | vidāthaḥ | karṇāiva | śāsuḥ | anu | hi | smarāthaḥ | aṃśāiva | naḥ | bhajatam | citram | apnaḥ