Sukta 10.103
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु । उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥
prétā́ jáyata nara índro vaḥ śárma yacchatu | ugrā́ vaḥ santu bāhávо’nādhṛ́ṣyā yáthāsatha ||
Go forward and conquer, O men; may Indra grant you the peace of a protected wideness. Let your arms be fierce in force, not to be overpowered, so that you may stand as you truly are—firm in the soul’s right courage.
प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ । उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु । उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥pra | ita | jayata | naraḥ | indraḥ | vaḥ | śarma | yacchatu | ugrāḥ | vaḥ | santu | bāhavaḥ | anādhṛṣyāḥ | yathā | asatha