Sukta 10.1
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒: परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥
sá jā́to gárbho asi ródasyo rágne cā́rur ví-bhṛta óṣadhīṣu | citráḥ śíśuḥ pári támāṃsy aktū́n prá mātṛ́bhyo ádhi kánikradad gā́ḥ ||
Born, thou art the child and secret embryo of the two worlds, O Agni—beautiful, upheld in the plants. A radiant infant, he moves around the nights of darkness; from the Mothers he cries out above, releasing the rays (cows) of light.
सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु । चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । विभृतः । ओषधीषु । चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृभ्यः । अधि । कनिक्रदत् । गाः ॥saḥ | jātaḥ | garbhaḥ | asi | rodasyoḥ | agne | cāruḥ | vi-bhṛtaḥ | oṣadhīṣu | citraḥ | śiśuḥ | pari | tamāṃsi | aktūn | pra | mātṛ-bhyaḥ | adhi | kanikradat | gāḥ